Saturday, 9 April 2022

श्रीआदित्यहृदयस्तोत्रम् . aditya hridaya stotra pdf . संपूर्ण आदित्य हृदय स्तोत्र मूलमात्र .

                                                                 

        इस  ' आदित्यहृदय ' नामक स्तोत्रका विनियोग एवं न्यासविधि इस प्रकार है 

विनियोग ॐ अस्य आदित्यहृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः , आदित्यहृदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः । 

ऋष्यादिन्यास अगस्त्यऋषये नमः , शिरसि । अनुष्टुप्छन्दसे नमः , मुखे । आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि । ॐ बीजाय नमः , गुह्ये । रश्मिमते शक्तये नमः , पादयोः । ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः , नाभौ । 

करन्यास इस स्तोत्रके अङ्गन्यास और करन्यास तीन प्रकारसे किये जाते हैं । केवल प्रणवसे , गायत्रीमन्त्रसे अथवा ' रश्मिमते नमः ' इत्यादि छः नाम मन्त्रोंसे । यहाँ नाम - मन्त्रोंसे किये जानेवाले न्यासका प्रकार बताया जाता है ॐ रश्मिमते अङ्गुष्ठाभ्यां नमः । ॐ समुद्यते तर्जनीभ्यां नमः । ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः । ॐ विवस्वते अनामिकाभ्यां नमः । ॐ भास्कराय कनिष्ठिकाभ्यां नमः । ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः । 

हृदयादि अङ्गन्यास   ॐ रश्मिमते हृदयाय नमः । ॐ समुद्यते शिरसे स्वाहा । ॐ देवासुरनमस्कृताय शिखायै वषट् । ॐ विवस्वते कवचाय हुम् । ॐ भास्कराय नेत्रत्रयाय वौषट् । ॐ भुवनेश्वराय अस्त्राय फट् । 

           इस प्रकार न्यास करके निम्नाङ्कित मन्त्रसे भगवान् सूर्यका ध्यान नमस्कार करना चाहिये - ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।  तत्पश्चात तीन बार ॐ सवित्रे सूर्यनारायाणाय नमः इस मंत्र का उच्चारण करे , तत्पश्चात् ' आदित्यहृदय ' स्तोत्रका पाठ करना चाहिये ।

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् । रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १ ॥

 दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् । उपगम्याब्रवीद्राममगस्त्यो भगवांस्तदा ॥ २ ॥ 

राम राम महाबाहो शृणु गुह्यं सनातनम् । येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥ ३ ॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् । जयावहं जपं नित्यमक्षयं परमं शिवम् ॥ ४ ॥ 
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५ ॥ 
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् । पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६ ॥ 
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः । एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ॥ ७ ॥ 
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः । महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥ ८ ॥ 
पितरो वसवः साध्या अश्विनौ मरुतो मनुः । वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥ 
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् । सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १० ॥ 
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।  तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ॥ ११ ॥ 
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः । अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः ॥ १२ ॥ 
व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः । घनवृष्टिरपां मित्रोविन्ध्यवीथीप्लवङ्गमः ॥ १३ ॥  
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः । कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥ 
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।  तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥ १५ ॥ 
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः ।  ज्योतिर्गणानां दिनाधिपतये नमः ॥ १६ ॥
जयाय जयभद्राय हर्यश्वाय नमो नमः । नमो नमः सहस्रांशो आदित्याय नमो नमः ॥ १७ ॥
 नम उग्राय वीराय सारङ्गाय नमो नमः । नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥ १८ ॥ 
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १ ९ ॥ 
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने । कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥ 
तप्तचामीकराभाय हरये विश्वकर्मणे । नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१ ॥ 
नाशयत्येष वै भूतं तमेव सृजति प्रभुः । पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२ ॥  
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः । एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥ 
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च । यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥ २४ ॥ 
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च । कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ॥ २५ ॥ 
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६ ॥ 
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि । एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥ २७ ॥ 
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत् तदा । धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥ 
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २ ९  
रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागमत् । सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।। ३० ।। 
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।। ३१ ।। 
॥ इति श्रीवाल्मीकीये रामायणे युद्धकाण्डे , अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं सम्पूर्णम् ॥ 
 
चाक्षुषोपनिषद् ( चाक्षुषी विद्या ) 
इस चाक्षुषी विद्याके श्रद्धा - विश्वासपूर्वक पाठ करनेसे नेत्रके समस्त रोग दूर हो जाते हैं । आँखकी ज्योति स्थिर रहती है । इसका पाठ नित्य करनेवालेके कुलमें कोई अन्धा नहीं होता । पाठके अन्त में गन्धादियुक्त जलसे सूर्यको अर्घ्य देकर नमस्कार करना चाहिये
विनियोग – ॐ अस्याश्चाक्षुषीविद्याया अहिर्बुध्न्य ऋषिर्गायत्री छन्दः सूर्यो देवता चक्षूरोगनिवृत्तये विनियोगः ।
 
             ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । मां पाहि पाहि । त्वरितं चक्षूरोगान् शमय शमय । मम जातरूपं तेजो दर्शय दर्शय । यथा अहम् अन्धो न स्यां तथा कल्पय कल्पय | कल्याणं कुरु कुरु । यानि मम पूर्वजन्मोपार्जितानि चक्षुः प्रतिरोधकदुष्कृतानि सर्वाणि निर्मूलय निर्मूलय । 
             ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । ॐ नमः करुणा करायामृताय । ॐ नमः सूर्याय । ॐ नमो भगवते सूर्यायांक्षितेजसे नमः । खेचराय नमः । महते नमः । रजसे नमः । तमसे नमः । असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय । उष्णो भगवाञ्छुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः । 
             य इमां चाक्षुष्मतीविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । न तस्य कुले अन्धो भवति । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा विद्यासिद्धिर्भवति । ॐ नमो भगवते आदित्याय अहोवाहिनी अहोवाहिनी स्वाहा । 
॥ श्रीकृष्णयजुर्वेदीया चाक्षुषी विद्या सम्पूर्णा ॥ 


Thursday, 7 April 2022

NCERT class 10th Sanskrit Lesson 1 Question answers । संस्कृत पाठ-1 प्रश्नोत्तर ।

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) अत्र जीवितं कीदृशं जातम्?
उत्तरम्
दुर्वहमत्र

(ख) अनिशं महानगरमध्ये किं प्रचलति?
उत्तरम्
कालायासचक्रम्

(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
उत्तरम्
भक्ष्यम्

(घ) अहं कस्मै जीवनं कामये?
उत्तरम्
मानवाय

(ङ) केषां माला रमणीया?
उत्तरम्
ललितलतानां

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
उत्तरम्
कविः सुजीवनार्थं प्रकृतेः शरणम् इच्छति।

(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
उत्तरम्
यानानां हि अनन्ताः पङ्कतयः महानगरेषु सन्ति अतः तत्र संसरणं कठिनं वर्तते।

(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
उत्तरम्
अस्माकं पर्यावरणे वायुमण्डलं जलम्, भक्ष्यम्, धरातलं च सर्व दुषितम् अस्ति।

उत्तरम्
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्
कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्
केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्
के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्
केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्
कस्याः



(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
उत्तरम्
कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।

(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
उत्तरम्
स्वस्थजीवनाय खगकुलकलरव गुञ्जिते-कुसुमावलि समीरचालिते वातावरणे भ्रमणीयम्।

(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
उत्तरम्
अन्तिमे पद्यांशे कवेः मानवेभ्यः शान्तिप्रिय-जीवनस्य कामना अस्ति।

प्रश्न 3.
सन्धिं / सन्धिविच्छेदं कुरुत-

(क) प्रकृतिः + _________ = प्रकृतिरेव
उत्तरम्
एव

(ख) स्यात् + _________ + _________ = स्यान्नैव
उत्तरम्
न, एव

(ग) _________ + अनन्ता = ह्यनन्ताः
उत्तरम्
हि

(घ) बहिः + अन्तः + जगति = _________
उत्तरम्
बहिरन्तर्जगति

(ङ) _________ + नगरात् = अस्मान्नगरात्
उत्तरम्
अस्मात्

(च) सम् + चरणम् = _________
उत्तरम्
पञ्चरणम्

(छ) धूमम् + मुञ्चति = _________
उत्तरम्
धूमंमुञ्चति

प्रश्न 4.
अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत-

भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः

(क) इदानीं वायुमण्डलं ___________ प्रदूषितमस्ति।
उत्तरम्
भृशम्

(ख) ___________ जीवन दुर्वहम् अस्ति।
उत्तरम्
अत्र

(ग) प्राकृतिक वातावरणे क्षणं सञ्चरणम् ___________ लाभदायकं भवति।
उत्तरम्
अपि

(घ) पर्यावरणस्य संरक्षणम् ___________ प्रकृतेः आराधना।
उत्तरम्
एव

(ङ) ___________ समयस्य सदुपयोगः करणीयः।
उत्तरम्
सदा

(च) भूकम्पित-समये ___________ गमनमेव उचितं भवति।
उत्तरम्
बहिः

(छ) ___________ हरीतिमा ___________ शुचि पर्यावरणम्।
उत्तरम्
यत्र, तत्र

प्रश्न 5(अ).
अधोलिखितानां पदानां पर्यायपदं लिखत-

(क) सलिलम् – _________
(ख) आम्रम् – _________
(ग) वनम् – _________
(घ) शरीरम् – _________
(ङ) कुटिलम् – _________
(च) पाषाणः – _________
उत्तराणि -
(क) जलम्
(ख) रसालम्
(ग) कान्तारम्
(घ) तनुः
(ङ) वक्रम्
(च) प्रस्तर:

प्रश्न 5(आ).
अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत-

(क) सुकरम् – ___________
(ख) दूषितम् – ___________
(ग) गृह्णन्ती – ___________
(घ) निर्मलम् – ___________
(ङ) दानवाय – ___________
(च) सान्ताः – ___________
उत्तराणि-
(क) दुष्करम्
(ख) निर्मलं
(ग) मुञ्चति
(घ) दुषितं
(ङ) मानवाय
(च) ध्वानम्

प्रश्न 6.
उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत-






उत्तराणि-
(ख) हरिततरूणाम् – कर्मधारय समास
(ग) ललितलतानाम् – कर्मधारय समास
(घ) नवमालिका – कर्मधारय समास
(ङ) धृतसुखसन्देशम् – बहुब्रीहि समास
(च) कज्जलमलिनम् – कर्मधारय समास
(छ) दुर्दान्तैर्दशनै – कर्मधारय समास

प्रश्न 7.
रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) शकटीयानम् कज्जलमलिनं धूम मुञ्चति।
उत्तरम्
कीदृशम्

(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
उत्तरम्
केषाम्

(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
उत्तरम्
के

(घ) महानगरेषु वाहनानाम् अनन्ता पङ्क्तयः धावन्ति।
उत्तरम्
केषु कुत्र

(ङ) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते।
उत्तरम्
कस्याः

NCERT class 10th Sanskrit Lesson 2 Question answers । संस्कृत पाठ-2 प्रश्नोत्तर ।

 अभ्यास: प्रश्न 1. एकपदेन उतरं लिखत ! (क) बुद्धिमती कुत्र व्याघ्र ददर्श ? (ख) भामिनी कया विमुक्ता ? (ग) सर्वदा सर्वकार्येषु का बलवती ? ...