यह कविता video में
"देखने के लिए वीडियो पर क्लिक करें"
प्रतिपलेsतिसंतप्तां , रात्रेस्तस्याः विलेखने ।।
इच्छामि चेदहं लैलां , मजनूं वा सुविरच्ये ।
क्रौञ्चस्य वा वधं दृष्ट्वा , नेत्राण्यद्य च संसिञ्चे ।।
किन्त्वद्य मे भूः भारती , मोदिना बहु मोदिता ।
तदा मया मम लेखन्या , शब्देष्वानन्दः कथितः ।।
भारतस्य च काश्मीरं , किरीटमिव राजते ।
हुतात्मनां च वीराणामासीत् प्राणाधिकं प्रियम् ।।
कोलाहलस्तु काश्मीरे , आतंकीनां बहुश्रुतः ।
हिज्बुल्लश्कर-घोषाणां , विनाशकालस्त्वारब्धः ।।
छिन्नमस्मद् शिरोयेन , बाणेन भूरिकष्टदा ।
निक्षिप्तः स शरः दूरं ,राष्ट्रपुत्रेण मोदिना ।।
विद्रोहिणः च नेतारः , कोलाहलं हि कुर्वन्ति ।
मृतः पुत्रः यथा तेषां , तथा वस्त्राणि भिन्दन्ति ।।
मनोरमेsस्मिन् भूःस्वर्गे पुनर्ध्यानं भविष्यति ।
सन्ध्यादानंतपोयोगः छठपूजा भविष्यति ।।
विषधरान्च हिंसन्तु , योग्यः कालः समागतः ।
देशद्रोहस्य नृत्येन , वयं जाताश्च लज्जिताः ।।
त्यजन्तु मधुरां वाणीं , विषस्य विषमौषधम् ।
अमरनाथ ! त्वं त्यज , शीतं च भव नाशकः ।।
वीर ! त्वं रणचण्डीं हि , शत्रोः रक्तं समर्पय ।
पाषाणक्षेप्तृणां वक्षविदारणं च त्वं कुरु ।।
क्रोधस्तावत् भीषणं स्यात् , सर्वे गिलानी नश्येयुः ।
क्रोधस्तावत् भीषणं स्यात् , सर्वे च मूफ्ति नश्येयुः ।
क्रोधस्तावत् भीषणं स्यात् , सर्वे चाब्दुल्ला नश्येयुः ।
काश्मीरस्य नाशकानां , प्राणाः नैवावशिश्येयुः ।।